|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.228. अध्यायः 228
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति तपश्शब्दस्य मतभेदेन नानार्थकत्वकथनपूर्वकं स्वमते तस्य ज्ञानार्थकत्वाभिधानम्॥ 1॥ ज्ञानस्य मोक्षसाधनत्वे दृष्टान्ततया सुवर्चलाचरित्रकथनम्॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
` युधिष्ठिर उवाच। 12-228-0x(6142)(74304)
यदिदं तप इत्याहुः किं तपः संप्रकीर्तितम्।
उपवासमथान्यत्तु वेदाचारमथो नु किम्।
शास्त्रं तपो महाप्राज्ञ तन्मे ब्रूहि पितामह॥ 12-228-1(74305)
भीष्म उवाच। 12-228-2x(6143)
पक्षमासोपवासादीन्मन्यन्ते वै तपोधनाः।
वेदव्रतादीनि तप अपरे वेदपारगाः।
वेदपारायणं चान्ये चाहुस्तत्वमथापरे॥ 12-228-2(74306)
यथाविहितमाचारस्तपः सर्वं व्रतं गताः।
आत्मविद्याविधानं यत्तत्तपः परिकीर्तितम्॥ 12-228-3(74307)
त्यागस्तपस्तथा शान्तिस्तप इन्द्रियनिग्रहः।
ब्रह्मचर्यं तपः प्रोक्तमाहुरेवं द्विजातयः॥ 12-228-4(74308)
सदोपवासो यो विद्वान्ब्रह्मचारी सदा भवेत्॥ 12-228-5(74309)
यो मुनिश्च सदा धीमान्विघसाशी विमत्सरः।
ततस्त्वनन्तमप्याहुर्यो नित्यमतिथिप्रियः॥ 12-228-6(74310)
नान्तराशीस्ततो नित्यमुपवासी महाव्रतः।
ऋतुगामी तथा प्रोक्तो विघसाशी स्मृतो बुधैः॥ 12-228-7(74311)
भृत्यशेषं तु यो भुङ्क्ते यज्ञशेषं तथाऽमृतम्।
एवं नानार्थसंयोगं तपः शश्वदुदाहृतम्॥ 12-228-8(74312)
केषां लोका ह्यपर्यन्ताः सर्वे सत्यव्रते स्थिताः।
येऽपि कर्ममयं प्राहुस्ते द्विजा ब्राह्मणाः स्मृताः।
रमन्ते दिव्यभोगैश्च पूजिता ह्यप्सरोगणैः॥ 12-228-9(74313)
ज्ञानात्मकं तपश्शब्दं ये वदन्ति विनिश्चिताः।
ते ह्यन्तराऽऽत्मसद्भावं प्रपन्ना नृपसत्तम॥ 12-228-10(74314)
एतत्ते नृपशार्दूल प्रोक्तं यत्पृष्ट्वानसि।
यथा वस्तुनि संज्ञानि विविधानि भवन्त्युत॥ 12-228-11(74315)
युधिष्ठिर उवाच। 12-228-12x(6144)
पितामह महाप्राज्ञ राजाधीना नृपाः पुनः।
अन्यानि च सहस्राणि नामानि विविधानि च॥ 12-228-12(74316)
प्रतियोगीनि वै तेषां छन्नान्यस्तमितानि च।
दृढं सर्वं प्राकृतकभिदं सर्वत्र पश्य वै॥ 12-228-13(74317)
तस्माद्यथागतं राजन्यथारुचि नृणां भवेत्।
अस्मिन्नर्थे पुरावृत्तं शृणु राजन्युधिष्ठिर॥ 12-228-14(74318)
ब्राह्मणानां समूहे तु यदुवाच सुवर्चला।
देवलस्य सुता विद्वन्सर्वलक्षणशोभिता॥ 12-228-15(74319)
कन्या सुवर्चला नाम योगभावितचेतना।
हेतुना केन जाता सा निर्द्वन्द्वा नष्टसंशया॥ 12-228-16(74320)
साऽब्रवीत्पितरं विप्रं वरान्वेषणतत्परा॥ 12-228-17(74321)
अन्धाय मां महाप्राज्ञ देहि वीक्ष्य सुलोचनम्।
एवं स्म च पितः शश्वन्मयेदं---मुने॥ 12-228-18(74322)
पितोवाच। 12-228-19x(6145)
न शक्यं प्रार्थितुं वत्से त्वयाऽद्य प्रतिभाति मे।
अन्धताऽनन्धता चेति विचारो मम जायते।
उन्मत्तेव सुते वाक्यं भाषसे पृथुलोचने॥ 12-228-19(74323)
कन्योवाच। 12-228-20x(6146)
नाहमुन्मत्तभूताऽऽद्य बुद्धिपूर्वं ब्रवीमि ते।
विद्धि वैतादृशं लोके स मां भजति वेदवित्॥ 12-228-20(74324)
यान्यांस्त्वं मन्यसे दातुं मां द्विजोत्तम तानिह।
आनयान्यान्महाभाग ह्यहं द्रक्ष्यामि तेषु तम्॥ 12-228-21(74325)
तथेति चोक्त्वा तां विप्रः प्रेषयामास शिष्यकान्।
ऋषेः प्रभावं दृष्ट्वा ते कन्यायाश्च द्विजोत्तमाः।
अनेकमुनयो राजन्संप्राप्ता देवलाश्रमम्॥ 12-228-22(74326)
तानागतानथाभ्यर्च्यं कन्यामाह पिता महान्।
यदीच्छसि वरं भद्रे तं विप्रं वरय स्वयम्॥ 12-228-23(74327)
तथेचि चोक्त्वा कल्याणी तप्तहेमनिभानना।
करसंमितमध्याङ्गी वाक्यमाह तपोधनाः॥ 12-228-24(74328)
यद्यस्ति संमतो विप्रो ह्यन्धोऽनन्धः स मे वरः।
नोचुर्विप्रा महाभागां प्रतिवाक्यं ययुश्च ते॥ 12-228-25(74329)
कन्या च तिष्ठतामत्र पितुर्वेश्मनि भारत॥ 12-228-26(74330)
श्वेतकेतुः कहालस्य श्यालः परमधर्मवित्।
श्रुत्वा ब्रह्मा तदागम्य कन्यामाह महीपते॥ 12-228-27(74331)
सोहं भद्रे समावृत्तस्त्वयोक्तो यः पुरा द्विजः।
विशालनयनं विद्धि मामन्धोऽहं वृणीष्व माम्॥ 12-228-28(74332)
सुवर्चलोवाच। 12-228-29x(6147)
कथं विशालनेत्रोऽसि कथं वा त्वमलोचनः।
ब्रूहि पश्चादहं विद्वन्परीक्षे त्वां द्विजोत्तम॥ 12-228-29(74333)
द्विज उवाच। 12-228-30x(6148)
शब्दे स्पर्शे तथा रूपे रसे गन्धे सहेतुकम्।
न मे प्रवर्तते चेतो न प्रत्यक्षं हि तेषु मे।
अलोचनोऽहं तस्माद्धि न गतिर्विद्यते यतः॥ 12-228-30(74334)
येन पश्यति सुश्रोणि भाषते स्पृशते पुनः।
भुज्यते घ्रायते नित्यं शृणोति मनुते तथा॥ 12-228-31(74335)
तच्चक्षुर्विद्यते मह्यं येन पश्यति वै स्फुटम्।
सुलोचनोऽहं भद्रे वै पृच्छ वा किं वदामि ते।
सर्वमस्मिन्न मे विद्या विद्वान्हि परमार्थतः॥ 12-228-32(74336)
सा विशुद्धा ततो भूत्वा श्वेतकेतुं महामुनिम्।
प्रणम्य पूजयामास तां भार्यां स च लब्धवान्॥ 12-228-33(74337)
वैराग्यसंयुता कन्या तादृशं परिमुत्तमम्।
प्राप्ता राजन्महाप्राज्ञ तस्मादर्थः पृथक्पृथक्॥ 12-228-34(74338)
एतत्ते कथितं राजन्किं भूयः श्रोतुमिच्छसि॥' ॥ 12-228-35(74339)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टाविंशत्यधिकद्विशततमोऽध्यायः॥ 228॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|